Showing posts with label ಸುಭಾಷಿತ. Show all posts
Showing posts with label ಸುಭಾಷಿತ. Show all posts

Wednesday, September 22, 2010

ಸುಭಾಷಿತಗಳು-2


|||सुभाषितानि-2|||

कीटोऽपि सुमनस्सङ्गात्
आरोहति सतां शिरः |
अश्मापि याति देवत्वम्
महद्भिः सुप्रतिष्ठितः ||1||

महान्तो न विरोद्दव्याः
दुर्जया हि महाजनाः |
स्फुरन्तमपि नागेन्द्रम्
भक्षयन्ति पिपीलिकाः ||2||

असहायः पुमानेकः
कार्यान्तं नाधिगच्छति |
तुषेणापि विनिर्मुक्तः
तण्डुलो न प्ररोहति ||3||

परोपकारशून्यस्य
धिङ् मनुष्यस्य जीवितम् |
जीवन्तु पशवो येषाम्
चर्माप्युपकरिष्यति ||4||

विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय |
खलस्य, साधोः विपरीतमेतत्
ज्ञानाय, दानाय च रक्षणाय ||5||

वरं वनं व्याघ्रगजादिसेवितम्
जनेन हीनं बहुकण्टकावृतम् |
तृणानि शय्या परिधानवल्कलम्
न बन्धुमध्ये धनहीनजीवितम् ||6||

वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा
सुप्तं प्रमत्तं विशमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ||7||

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः |
परगुणपरमाणून् पर्वतीकृत्य नित्यम्
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ||8||

-भर्तृहरिः


Web Hosting

Sunday, September 19, 2010

ಸುಭಾಷಿತಗಳು-1

|||सुभाषितानि-1|||

पृथिव्यां त्रीणि रत्नानि
जलमन्नं सुभाषितम् |
मूढैः पाषाणखण्डेषु
रत्नसंಜ್ಞಾ विधीयते ||1||

प्रियवाक्यप्रदानेन
सर्वे तुष्यन्ति जन्तवः |
तस्मात्तदेव वक्तव्यं
वचने का दरिद्रता ||2||

विहाय पौरुषं यो हि
दैवमेवावलंबते |
प्रासादसिम्हवत्तस्य
मूर्ध्नि तिष्टन्ति वायसाः ||3||

श्लोकस्तु श्लोकतां याति
यत्र तिष्टन्ति पण्डिताः |
लकारो लुप्यते तत्र
यत्र तिष्टन्त्यपण्डिताः ||4||

शिरसि धार्यमाणोऽपि
सोमः सोमेन शम्भुना |
तथापि कृशतां याति
कष्टः खलु पराश्रयः ||5||

दृष्टिपूतं न्यसेत्पादं
वस्त्रपूतं विबेज्जलम् |
सत्यपूतां वदेद्वाणीं
मनः पूतं समाचरेत् ||6||

निर्वनो वध्यते व्याघ्रः
निर्व्याघ्रं चिध्यते वनम् |
तस्माद्व्याघ्रो वनं रक्षेत्
वनं व्याघ्रं च पालयेत् ||7||

मक्षिकाः व्रणमिच्छन्ति
धनामिच्छन्ति पार्थिवाः |
नीचाः कलहमिच्छन्ति
शान्तिमिच्छन्ति साधवाः ||8||

काकः कृष्णः पिकः कृष्णः
को भेदः पिककाकयोः |
वसन्तसमये प्राप्ते
काकः काकः पिकः पिकः ||9||

पादपानां भयं वातः
पद्मानां शिशिरो भयम् |
पर्वतानां भयं वज्रः
साधूनां दुर्जनो भयम् ||10||

-भर्तृहरिः