|||सुभाषितानि 3|||
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः |
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति ||1||
-- नीतिशतकम्
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् |
दिनस्य पुर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ||2||
-- नीतिशतकम्
साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुः पुच्छाविषाणहीनः |
तृणं न खादन्नपि जीवमानः
तद्भागदेयं परमं पशूनाम् ||3||
-- नीतिशतकम्
शिक्षा क्षमं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः |
जलं जलस्थानगतमं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ||4||
-- कर्णभारम्
वित्तेन हीनं पुरुषं त्यजन्ति
दाराश्चा पुत्राश्चा सहोदराश्चा |
तं वित्तवन्तं पुनरेव यान्ति
वित्तं ही लोके पुरुषस्य बन्धुः ||5||
-- सुभषितसुधानिधिः
दानेन तुल्यो निधिरस्ति नान्यो
लोभाच्चा नान्योऽस्ति रिपुः पृथिव्याम् |
विभूषणं शीलसमं न चान्यत्
सन्तोषतुल्यं धनमस्ति नान्यत् ||6||
-- पञ्चतन्त्रम्
सम्पूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम् |
विद्वान्कुलीनो न करोति गर्वं
गुणैर्विहीना बहुजल्पयन्ति ||7||
-- सुभषितरत्नभाण्डागारम्
वनेऽपि सिंहा मृगमांसभक्ष्याः
बुभुक्षिता नैव तृणं चरन्ति |
एवं कुलीना व्यसनाभिभूता
न नीतिमार्गं परिलङ्घयन्ति ||8||
-- पञ्चतन्त्रम्
रत्नाकरः किं कुर्वते स्वरत्नैः
विन्ध्याचलः किं करिभिः करोति |
श्रिखण्डखण्डै: मलयाचलः किम्
परोपकाराय सतां विभूतयः ||9||
-- सुभषितरत्नभाण्डागारम्
जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते |
गुणाधिके पुंसि जनोऽनुरज्यते
जनानुरागप्रभवा हि सम्पदः ||10||
-- सुभषितरत्नभाण्डागारम्
********************************************
|||सुभाषितानि-1|||
पृथिव्यां त्रीणि रत्नानि
जलमन्नं सुभाषितम् |
मूढैः पाषाणखण्डेषु
रत्नसंಜ್ಞಾ विधीयते ||1||
प्रियवाक्यप्रदानेन
सर्वे तुष्यन्ति जन्तवः |
तस्मात्तदेव वक्तव्यं
वचने का दरिद्रता ||2||
विहाय पौरुषं यो हि
दैवमेवावलंबते |
प्रासादसिम्हवत्तस्य
मूर्ध्नि तिष्टन्ति वायसाः ||3||
श्लोकस्तु श्लोकतां याति
यत्र तिष्टन्ति पण्डिताः |
लकारो लुप्यते तत्र
यत्र तिष्टन्त्यपण्डिताः ||4||
शिरसि धार्यमाणोऽपि
सोमः सोमेन शम्भुना |
तथापि कृशतां याति
कष्टः खलु पराश्रयः ||5||
दृष्टिपूतं न्यसेत्पादं
वस्त्रपूतं विबेज्जलम् |
सत्यपूतां वदेद्वाणीं
मनः पूतं समाचरेत् ||6||
निर्वनो वध्यते व्याघ्रः
निर्व्याघ्रं चिध्यते वनम् |
तस्माद्व्याघ्रो वनं रक्षेत्
वनं व्याघ्रं च पालयेत् ||7||
मक्षिकाः व्रणमिच्छन्ति
धनामिच्छन्ति पार्थिवाः |
नीचाः कलहमिच्छन्ति
शान्तिमिच्छन्ति साधवाः ||8||
काकः कृष्णः पिकः कृष्णः
को भेदः पिककाकयोः |
वसन्तसमये प्राप्ते
काकः काकः पिकः पिकः ||9||
पादपानां भयं वातः
पद्मानां शिशिरो भयम् |
पर्वतानां भयं वज्रः
साधूनां दुर्जनो भयम् ||10||
-भर्तृहरिः
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्याः |
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजना न परित्यजन्ति ||1||
-- नीतिशतकम्
आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् |
दिनस्य पुर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ||2||
-- नीतिशतकम्
साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुः पुच्छाविषाणहीनः |
तृणं न खादन्नपि जीवमानः
तद्भागदेयं परमं पशूनाम् ||3||
-- नीतिशतकम्
शिक्षा क्षमं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः |
जलं जलस्थानगतमं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ||4||
-- कर्णभारम्
वित्तेन हीनं पुरुषं त्यजन्ति
दाराश्चा पुत्राश्चा सहोदराश्चा |
तं वित्तवन्तं पुनरेव यान्ति
वित्तं ही लोके पुरुषस्य बन्धुः ||5||
-- सुभषितसुधानिधिः
दानेन तुल्यो निधिरस्ति नान्यो
लोभाच्चा नान्योऽस्ति रिपुः पृथिव्याम् |
विभूषणं शीलसमं न चान्यत्
सन्तोषतुल्यं धनमस्ति नान्यत् ||6||
-- पञ्चतन्त्रम्
सम्पूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम् |
विद्वान्कुलीनो न करोति गर्वं
गुणैर्विहीना बहुजल्पयन्ति ||7||
-- सुभषितरत्नभाण्डागारम्
वनेऽपि सिंहा मृगमांसभक्ष्याः
बुभुक्षिता नैव तृणं चरन्ति |
एवं कुलीना व्यसनाभिभूता
न नीतिमार्गं परिलङ्घयन्ति ||8||
-- पञ्चतन्त्रम्
रत्नाकरः किं कुर्वते स्वरत्नैः
विन्ध्याचलः किं करिभिः करोति |
श्रिखण्डखण्डै: मलयाचलः किम्
परोपकाराय सतां विभूतयः ||9||
-- सुभषितरत्नभाण्डागारम्
जितेन्द्रियत्वं विनयस्य कारणं
गुणप्रकर्षो विनयादवाप्यते |
गुणाधिके पुंसि जनोऽनुरज्यते
जनानुरागप्रभवा हि सम्पदः ||10||
-- सुभषितरत्नभाण्डागारम्
********************************************
|||सुभाषितानि-1|||
पृथिव्यां त्रीणि रत्नानि
जलमन्नं सुभाषितम् |
मूढैः पाषाणखण्डेषु
रत्नसंಜ್ಞಾ विधीयते ||1||
प्रियवाक्यप्रदानेन
सर्वे तुष्यन्ति जन्तवः |
तस्मात्तदेव वक्तव्यं
वचने का दरिद्रता ||2||
विहाय पौरुषं यो हि
दैवमेवावलंबते |
प्रासादसिम्हवत्तस्य
मूर्ध्नि तिष्टन्ति वायसाः ||3||
श्लोकस्तु श्लोकतां याति
यत्र तिष्टन्ति पण्डिताः |
लकारो लुप्यते तत्र
यत्र तिष्टन्त्यपण्डिताः ||4||
शिरसि धार्यमाणोऽपि
सोमः सोमेन शम्भुना |
तथापि कृशतां याति
कष्टः खलु पराश्रयः ||5||
दृष्टिपूतं न्यसेत्पादं
वस्त्रपूतं विबेज्जलम् |
सत्यपूतां वदेद्वाणीं
मनः पूतं समाचरेत् ||6||
निर्वनो वध्यते व्याघ्रः
निर्व्याघ्रं चिध्यते वनम् |
तस्माद्व्याघ्रो वनं रक्षेत्
वनं व्याघ्रं च पालयेत् ||7||
मक्षिकाः व्रणमिच्छन्ति
धनामिच्छन्ति पार्थिवाः |
नीचाः कलहमिच्छन्ति
शान्तिमिच्छन्ति साधवाः ||8||
काकः कृष्णः पिकः कृष्णः
को भेदः पिककाकयोः |
वसन्तसमये प्राप्ते
काकः काकः पिकः पिकः ||9||
पादपानां भयं वातः
पद्मानां शिशिरो भयम् |
पर्वतानां भयं वज्रः
साधूनां दुर्जनो भयम् ||10||
-भर्तृहरिः
***************************************************************************
|||सुभाषितानि-2|||
कीटोऽपि सुमनस्सङ्गात्
आरोहति सतां शिरः |
अश्मापि याति देवत्वम्
महद्भिः सुप्रतिष्ठितः ||1||
महान्तो न विरोद्दव्याः
दुर्जया हि महाजनाः |
स्फुरन्तमपि नागेन्द्रम्
भक्षयन्ति पिपीलिकाः ||2||
असहायः पुमानेकः
कार्यान्तं नाधिगच्छति |
तुषेणापि विनिर्मुक्तः
तण्डुलो न प्ररोहति ||3||
परोपकारशून्यस्य
धिङ् मनुष्यस्य जीवितम् |
जीवन्तु पशवो येषाम्
चर्माप्युपकरिष्यति ||4||
विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय |
खलस्य, साधोः विपरीतमेतत्
ज्ञानाय, दानाय च रक्षणाय ||5||
वरं वनं व्याघ्रगजादिसेवितम्
जनेन हीनं बहुकण्टकावृतम् |
तृणानि शय्या परिधानवल्कलम्
न बन्धुमध्ये धनहीनजीवितम् ||6||
वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा
सुप्तं प्रमत्तं विशमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ||7||
मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः |
परगुणपरमाणून् पर्वतीकृत्य नित्यम्
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ||8||
-भर्तृहरिः
कीटोऽपि सुमनस्सङ्गात्
आरोहति सतां शिरः |
अश्मापि याति देवत्वम्
महद्भिः सुप्रतिष्ठितः ||1||
महान्तो न विरोद्दव्याः
दुर्जया हि महाजनाः |
स्फुरन्तमपि नागेन्द्रम्
भक्षयन्ति पिपीलिकाः ||2||
असहायः पुमानेकः
कार्यान्तं नाधिगच्छति |
तुषेणापि विनिर्मुक्तः
तण्डुलो न प्ररोहति ||3||
परोपकारशून्यस्य
धिङ् मनुष्यस्य जीवितम् |
जीवन्तु पशवो येषाम्
चर्माप्युपकरिष्यति ||4||
विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय |
खलस्य, साधोः विपरीतमेतत्
ज्ञानाय, दानाय च रक्षणाय ||5||
वरं वनं व्याघ्रगजादिसेवितम्
जनेन हीनं बहुकण्टकावृतम् |
तृणानि शय्या परिधानवल्कलम्
न बन्धुमध्ये धनहीनजीवितम् ||6||
वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा
सुप्तं प्रमत्तं विशमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ||7||
मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः |
परगुणपरमाणून् पर्वतीकृत्य नित्यम्
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ||8||
-भर्तृहरिः
No comments:
Post a Comment